मूलम्
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः।
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः।
पदे त्वर्वाचीने पतति न मनः कस्य न वचः।। २।।

पदच्छेदः-
अतीतः पन्थानं तव च महिमा वाङ्-मनसयोः।अतद्व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिः अपि।। सः कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः।पदे तु अर्वाचीने पतति न मनः कस्य न वचः।। २।।

अन्वयः-
तव च महिमा वाङ्-मनसयोः पन्थानम् अतीतः, यं श्रुतिः अपि अतद्व्यावृत्त्या चकितम् अभिधत्ते ।सः (महिमा) कस्य स्तोतव्यः ? सः (महिमा) कतिविधगुणः? कस्य विषयः? तु अर्वाचीने पदे कस्य मनः न पतति कस्य वचः न पतति? २

सरलार्थः
तव माहात्म्यं मनसः वाण्याः च मार्गम् उल्लङ्घ्य अग्रे गतम्।श्रुतिः अपि अस्य माहात्म्यस्य वर्णने भयम् अनुभवति।अतः नेति नेति इति अतद्व्यावृत्तिरूपेण सा तव माहात्म्यं प्रतिपादयति।तादृशं माहात्म्यं कः खलु वर्णयितुं समर्थः? तस्मिन् माहात्म्ये कतिविधः गुणः अस्ति? तद् माहात्म्यं कस्य खलु विषयः अस्ति? तथापि तव माहात्म्यस्य अपेक्षया तव पदं समीपतरम्।तत्र कस्य वा मनः न याति?तत्र कस्य वा वाणी न प्रविशति? वाङ्मनसोः कृते तव माहात्म्यवर्णनं दुष्करं परं तव पदस्य आश्रयणं सुकरम्।२

शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अतीतः_पन्थानं...&oldid=6157" इत्यस्माद् प्रतिप्राप्तम्