मूलम्
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा-
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः।।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो।
विकारोऽपि श्लाघ्यो भुवन-भय-भङ्ग-व्यसनिनः।। १४।।

पदच्छेदः-
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देव-असुर-कृपा-विधेयस्य आसीद् यः त्रिनयन विषं संहृतवतः।।
सः कल्माषः कण्ठे तव न कुरुते न श्रियम् अहो।विकारः अपि श्लाघ्यः भुवन-भय-भङ्ग-व्यसनिनः।।

अन्वयः
त्रिनयन, अकाण्ड-ब्रह्माण्ड-क्षयचकित-देव-असुर-कृपा-विधेयस्य विषं संहृतवतः तव कण्ठे यः कल्माषः आसीद्, न सः श्रियम् न कुरुते? अहो भुवन-भय-भङ्ग-व्यसनिनः विकारः अपि श्लाघ्यः ।। १४।।

सरलार्थः-
समुद्रमन्थने उद्भूतेन विषेण अखिलब्रह्माण्डस्य क्षयः आरब्धः।तेन देवाः असुराः च भीताः।त्वया तेषु कृपा विहिता।सर्वं विषं पीतम्।तेन तव कण्ठे कलङ्कः जातः।सः किं तव शोभां न वर्धयति? जगतः भयस्य नाशनम् इत्येव यस्य व्यसनं तस्य विकारः अपि स्तुत्यः भवति। १५


शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अकाण्ड-ब्रह्माण्ड...&oldid=6169" इत्यस्माद् प्रतिप्राप्तम्