अंशित्वहेतौ सत्प्रतिपक्षदोषस्य निराकरणम...

प्र.- अंशित्वहेतौ सत्प्रतिपक्षदोषस्य निराकरणं कुरुत।
उ.-
१) सन्दर्भ:
२) अंशित्वहेतौ सत्प्रतिपक्षदोष:
३) उपाधे: आधारेण सत्प्रतिपक्षदोषस्य निराकरणम्
४) उपाधिविषये पूर्वपक्षस्य आक्षेप: तत्समाधानं च।
५) उपसंहार:

१) सन्दर्भ:-
अंशित्वप्रकरणे अयं विषय: पठ्यते।तत्र पूर्वपक्षेण अंशित्वहेतौ दोषा: दर्शिता:।तेषां निराकरणं ग्रन्थकारेण कृतम्।पूर्वपक्षेण दर्शितेषु दोषेषु अयमन्यतम: दोष: सत्प्रतिपक्ष: इति।

२) अंशित्वहेतौ सत्प्रतिपक्षदोष:
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते, स सत्प्रतिपक्ष: हेत्वाभास:।अंशित्वहेतो: साध्यमस्ति एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्।तस्य अभाव: - ‘एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न’। तस्य साधको हेतु: एतत्तन्त्वारब्धत्वम्।एवं पूर्वपक्षस्य अनुमानं भवति-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न(एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोग्यभाववान्), एतत्तन्त्वारब्धत्वात्,
यत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभाव-अभाव: (एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं) तत्र एतत्तन्त्वारब्धत्वाभाव: यथा पटान्तरम्।


३) सत्प्रतिपक्षदोषस्य निराकरणम्
अंशित्वहेतो: सत्प्रतिपक्षदोषं वक्तुं पूर्वपक्षेण यदेतद् अनुमानमुक्तं, तद् दुर्बलम् अत: तत् चित्सुखीयानुमानस्य प्रतिरोधं कर्तुं न शक्नोति।अस्य दुर्बलत्वं न उपाधिकृतम्।अस्मिन् अनुमाने य: हेतु: उक्त: (एतत्तन्त्वारब्धत्वम्), स: उपाधिदोषग्रस्त:।एतादृशेन सोपाधिकेन हेतुना साधितमनुमानं दुर्बलं भवति।उपाधिदोष: एवम्-
साध्यव्यापकत्वे सति साधनाव्यापकम् उपाधि:।पूर्वपक्षस्य अनुमाने व्यतिरेकव्याप्ति: अङ्गीकृता।तस्यां व्याप्तौ -
(एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं) साधनम्,
एतत्तन्त्वारब्धत्वाभाव: (एतत्तन्त्वनारब्धत्वम्) साध्यम् ,
एतन्निष्ठप्रागभावाप्रतियोगित्वम् उपाधि:।
यत्र एतत्तन्त्वनारब्धत्वं (साध्यम्) तत्र एतन्निष्ठप्रागभावाप्रतियोगित्वम् (उपाधि:) यथा पटान्तरे।एतद् उपाधे: साध्यव्यापकत्वम्।
यत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं (साधनम् )तत्र एतन्निष्ठप्रागभावाप्रतियोगित्वम् इति न।एतद् उपाधे: साधनाव्यापकत्वम्।

४) उपाधिविषये आक्षेप: समाधानं च।
आक्षेप:- उपाधे: साध्यव्यापकत्वमस्ति परं साधनाव्यापकत्वं न सिद्ध्यति।
समाधानम्- अस्मिन् पटे एतत्तन्तुनिष्ठ-अत्यन्ताभावप्रतियोगित्वं (साधनम्)सन्दिह्यमानम् अस्ति।अस्मिन् पटे एतन्निष्ठप्रागभावाप्रतियोगित्वं (उपाधि:) निश्चयेन अत्र न वर्तते। एवमस्मिन् पटे साधनं कदाचित् स्यात् कदाचित् न स्यात् परम् उपाधि: निश्चयेन नास्ति। अत: उपाधि: साधनव्यापक: भवितुं नार्हति।

५) उपसंहार:
एवं पूर्वपक्षस्य अनुमानं सोपाधिकम् अत: दुर्बलम्।चित्सुखीयानुमानस्य प्रतिरोध: अनेन न सम्भवति। .................................................................
दीर्घोत्तरप्रश्ना: