अंशाधिकरणम्
अंशो नानाब्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके।२.३.४३
पू.- जीवेश्वरयो: उपकार्योपकारकभाव उक्त:।स च सम्बद्धयोरेव सम्भवति।अत: जीवेश्वरयो: कश्चित् सम्बन्ध: भवितुम् अर्हति। स: सम्बन्ध: स्वामिभृत्यसदृश: अङ्गीक्रियते।
वे.-वह्निस्फुलिङ्गवद् अंशाशिभाव: अपि शक्य:।
पू. न शक्य:। यतो हि लोके स्वामिभृत्यप्रकारेषु एव ईशित्रीशितव्यभाव: प्रसिद्ध:।
वे.- जीवेश्वरयो: अंशांशिभावसम्बन्ध: एव उचित:, न तु स्वामिभृत्यप्रकारक: सम्बन्ध:।जीव: ईश्वरस्य अंश: भवितुम् अर्हति यथा अग्ने: विस्फुलिङ्ग:।
पू.- ईश्वर: निरवयव:।तस्य अंश: न सम्भवति।
वे.- मुख्यवृत्या तस्य अंश: न सम्भवति तर्हि गौणवृत्या अंश: कल्पनीय:।
पू.- एवं चेद् अंशत्वस्वीकार: एव मास्तु।
वे.- कथं मास्तु? श्रुतौ नानात्वव्यपदेशात् अंशांशिभावसम्बन्ध: सिद्ध्यति।
पू.- के ते नाना व्यपदेशा:?
वे.-
१ सोऽन्वेष्टव्य: स: विजिज्ञासितव्य: (छा. ८.७.१)
२ एतमेव विदित्वा मुनिर्भवति।()
३ य आत्मनि तिष्ठन् आत्मानमन्तरो यमयति।
एतादृशानि भेदवचनानि जीवेश्वरयो: भेदे सति एव युज्यन्ते।अत: अंशांशिभावसम्बन्ध: अङ्गीकरणीय:।
पू.- योऽयं नाना व्यपदेश उक्त: स: जीवेश्वरयो: स्वामिभृत्यसम्बन्धस्वीकारे एव युज्यते।
वे.- न च नानाव्यपदेशादेव केवलात् अंशत्वप्रतीति:, अन्यथा चापि व्यपदेशो विद्यते अनानात्वप्रतिपादक:।
पू.- कुत्र विद्यते अनानात्वप्रतिपादकोपदेश:?
वे.- एके आथर्वणिका: दाशकितवादिभावम् आमनन्ति।ब्रह्मसूक्ते ‘ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवैते कितवा:’ इत्यादिना सर्वेषां जीवानां ब्रह्मत्वम् आह श्रुति:।दाशा: इति कैवर्तका:।दासा: सेवका:। कितवा: द्यूतकृत:।हीनानाम् उदाहरणेन सर्वेषां जीवानां ब्रह्मत्वम् उच्यते।‘त्वं स्त्री त्वं पुमानसि, त्वं कुमार उत वा कुमारी।त्वं जीर्णो दण्डेन वञ्चसि, त्वं जातो भवसि विश्वतोमुख:॥(श्वेता.४.३) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ ‘नान्योऽतोऽस्ति द्रष्टा।(बृ.३.७.२३)एवं जीवस्य ईश्वराद् भेदोऽपि कथित:, अभेदोऽपि।एतद् उभयमपि तदानीम् एव सत्यं यदि जीव: ईश्वरस्य अंश: अस्ति।अत: जीव: ईश्वरस्य अंश: एव भवितुम् अर्हति।
मन्त्रवर्णाच्च।२.३.४४
वेदान्ती- तावानस्य महिमा अतो ज्यायांश्च पूरुष:।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।
(छा.३.१२.६) इति एष: मन्त्रवर्ण:।तत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि भूतानि गृह्यन्ते।अंश: पाद: इत्यर्थ: समान:।अत: जीव: ईश्वरस्य अंश: इति सिद्धम्।
पू.- भूतशब्द: पृथिव्यादिषु रूढ:, तदत्र भूतशब्देन जीवा: कथं गृहीता:?
वे.- ‘अहिंसन् सर्वभूतानि अन्यत्र तीर्थेभ्य:’ इति वचने भूतशब्द: जीवपर:।अत: प्रकृतेऽपि भूतशब्देन जीवग्रहणे न दोष:।
अपि च स्मर्यते।२.३.४५
वे.- भगवद्गीतायामपि जीवस्य ईश्वरांशत्वं स्मर्यते-
ममैवांशो जीवलोके जीवभूत: सनातन:।(गी. १५.७)
पू.- परं लोके तु स्वामिभृत्यसम्बन्धे एव ईशित्रीशितव्यभाव: प्रसिद्ध:।
वे.- स्यादपि।शास्त्रात्तु जीवेशयो: अंशांशिभावसम्बन्ध: ईशित्रीशितव्यभाव: च सिद्ध्यति।
पू.- यदि जीव: ईशांश:, तर्हि जीवदु:खेन ईशोऽपि दु:खभाग् भवितुमर्हति।ततश्च ईश्वरप्राप्तानां जीवनां महत्तरं दु:खं प्राप्नुयात्।तेन बद्धदशात: अपि मोक्ष: कष्टप्रद: इति सम्यग्दर्शनानर्थक्यस्य प्रसङ्ग:।
प्रकाशादिवन्नैवं पर:।२.३.४६
वे.-यथा जीव: संसारदु:खमनुभवति, नैवमीश्वर:।मिथ्याभिमाननिमित्त: दु:खानुभव:।तादृश: भ्रम: जीवस्यास्ति अत: तस्य दु:खानुभवोऽपि अस्ति।ईश्वरस्य तादृश: भ्रम: नास्ति अत: तस्य दु:खानुभव: नास्ति।
पू.- ‘मिथ्याभिमाननिमित्त: दु:खानुभव:’ इत्यत्र किं प्रमाणम्?
वे.-स्वदेहविषयक: अभिमान: अस्ति अत: स्वदेहदाहच्छेदादिभि: दु:खानुभव: भवति। स्वपुत्रमित्रादिषु अभिमान: अस्ति अत: तेषां दु:खेन दु:खानुभव: भवति।एवम् अभिमाने सति दु:खानुभव: इत्यन्वय:।
पुत्रमित्राभिमानिषु जनेषु तथा पुत्रमित्राद्यभिमानरहितेषु जनेषु एकत्र उपविष्टेषु सत्सु यदि पुत्रनिधनवार्ता श्राव्यते, तर्हि पुत्राभिमानिनामेव जनानां दु:खानुभव: भवति, न तु पुत्रमित्राद्य-भिमानरहितानां परिव्राजकादीनाम्।एवम् अभिमानाभावे दु:खानुभवाभाव: इति व्यतिरेक:।
इत्थम् अन्वयव्यतिरेकाभ्यां सिद्ध्यति यद् दु:खानुभव: मिथ्याभिमाननिमित्त: इति।प्रकाशादिवद् इति निदर्शनानि।आदिपदेन सूर्याकाशयो: ग्रहणम्।
१ सौर: चान्द्रमस:वा प्रकाश: अङ्गुल्याद्युपाधिसम्बद्ध: यदा भवति, तदा अङ्गुलीषु वक्रासु प्रकाश: अपि वक्र: भवति।अङ्गुलीषु सरलासु सरल: भवति।प्रकाश: परमार्थत: न वक्र:, न वा ऋजु:।
२ घटोपाधिक: आकाश: घटे गच्छति गच्छन् इव भाति।न चाकाश: परमार्थतो गच्छति।
३ शरावगते जले कम्पमाने तद्गत: रविबिम्ब: कम्पमान: इव दृश्यते।न च रविबिम्ब: परमार्थत: कम्पते।
एवमेव अविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवरूपे अंशे दु:खायमानेऽपि तद्वानीश्वर: दु:खायते। जीवस्य दु:खागम: अविद्यानिमित्त:।अत: जैवेन दु:खेन न परमात्मनो दु:खित्वप्रसङ्ग:।
स्मरन्ति च। २.३.४७
वे.- व्यासादयोऽपि स्मरन्ति यद् जैवेन दु:खेन परमात्मा न दु:खायते-
१ तत्र य: परमात्मा हि स नित्यो निर्गुण: स्मृत:।न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा॥ कर्मात्मा त्वपरो योऽसौ मोक्षबन्धै: स युज्यते॥
श्रुतिरपि विद्यते-
१ तयोरन्य: स्वाद्वत्ति पिप्पलम् अनश्नन् अन्योऽभिचाकशीति॥(श्वेता.४,६)
२ एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदु:खेन बाह्य:॥(कठो.५.११)
पू.- यदि सर्वेषां भूतानामान्तरात्मा एक: एव, तर्हि लौकिकौ वा वैदिकौ वा अनुज्ञापरिहारौ कथं भविष्यत:?
वे.- ईश्वरस्य अंशा: जीवा: इति उक्तम्।अनुज्ञापरिहारौ जीवाश्रयौ।जीवभेदाद् अनुज्ञापरिहारौ मिथ: अव्यतिकीर्णौ सम्भवत:।
पू.- ननु ‘जीव: अंश: नास्ति’ इति प्रतिपादिका: अपि नैका: श्रुतय: सन्ति।
वे.- का: ता: श्रुतय:?
पू.- तत् सृष्ट्वा तदेवानुप्राविशत्।(तैत्ति. २.६.१)
२ नान्योऽतोऽस्ति द्रष्टा।(बृ. ३.७.२३)
३ मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यति।(बृ.४.४.१९)
४ तत्त्वमसि।(छा.६.८.७)
५ अहं ब्रह्मास्मि।(बृ.४.४.१९)
इत्येवंजातीयका: श्रुतय: जीवेश्वरभेदं प्रतिपादयन्ति।
वे.- काश्चन श्रुतय: जीवेश्वरभेदं प्रतिपादयन्ति, काश्चन अभेदं प्रतिपादयन्ति।उभयमपि तदानीमेव सार्थं यदि जीव: ‘ईश्वरस्य अंश:’ इति स्वीक्रियते।
पू.- नैतावता विषय: समाप्यते।भेदाभेदावगमाभ्यां जीवेश्वरयो: अंशांशिभाव: तदानीमेव सिद्ध्येत्, यदि उभौ अपि भेदाभेदौ श्रुते: अभिमतौ।तथा नास्ति।श्रुते: अभेद: एवानुमत:, न भेद:।भेदस्तु स्वभावप्राप्त:।स: केवलम् अनूद्यते।एवं स्थिते जीवेश्वरयो: अंशांशिभाव: निरस्त:। एक: एवेश्वर: सर्वेषां भूतानां जीवभावेनावस्थित: इति प्राप्तम्।अथ चोद्यते यद् अनुज्ञापरिहारौ कथं सम्भवत:?
अनुज्ञापरिहारौ देहसम्बन्धात् ज्योतिरादिवत्।२.३.४८
वे.-
वैदिके - ‘ऋतौ भार्यामुपेयात्’ इति अनुज्ञा।गुर्वङ्गनां नोपगच्छेदिति परिहार:।
लौकिके- मित्रमुपसेवितव्यम् इत्यनुज्ञा।शत्रु: परिहार्य: इति परिहार:।
एतादृशौ अनुज्ञापरिहारौ सत्यपि आत्मन: एकत्वे देहसम्बन्धात् सम्भवत:।देहै: सह सम्बन्ध: देहसम्बन्ध:।‘अहं देह:’ इति विपरीतप्रत्ययोत्पत्ति: एव देहसम्बन्ध:।एतस्य देहसम्बन्धस्य विशेषात् ऐकात्म्याभ्युपगमेऽपि अनुज्ञापरिहारौ शक्यौ।
पू.- सम्यग्दर्शिन: ‘देहोऽहम्’ इति भ्रान्ति: नास्ति।तस्य तर्हि अनुज्ञापरिहारानर्थक्यं प्राप्तम्।
वे.- न।सम्यग्दर्शी ‘नियोज्य:’ एव न भवति।,यतो हि स:कृतार्थ:।हेयोपादेययो: नाशात् नियोग: न सम्भवति।सम्यग्दर्शिन: हेयोपादेयं नावशिष्यते।अत: स: न नियोज्य:।
पू.- नियोग:नास्ति चेत् सम्यग्दर्शिन: यथेष्टचेष्टाप्रसङ्ग:।
वे.- न।सर्वत्राभिमान: एव प्रवर्तक:।सम्यग्दर्शी अभिमानरहित:।अत: तस्य यथेष्टचेष्टाप्रसङ्ग: नास्ति।तस्माद् देहसम्बन्धादेव अनुज्ञापरिहारौ।ज्योतिरादिवदिति निदर्शनम्।ज्योति: अग्नि:।स च एक: तथापि क्रव्याद् अग्नि: परिह्रियते, नेतरे।सवितु: प्रकाश: एक:, तथापि अशुचिदेशोपहित: प्रकाश: परिह्रियते, नेतर:।पार्थिवत्वं समानं तथापि हीरकवैडूर्यादिकम् उपादीयते, नरकलेवरादिकं परिह्रियते।मूत्रपुरीषं गवां स्वीक्रियते, अन्येषां परिह्रियते।एवं सर्वेषु भूतेषु आत्मा एक: तथापि देहसम्बन्धविशेषात् स्वीकारपरिहारौ भवत:।
असन्ततेश्चाव्यतिकर:।२.३.४९
पूर्वपक्ष:- यद्यपि देहविशेषसम्बन्धाद् एकस्य अपि आत्मन: अनुज्ञापरिहारौ सम्भवत:, इति मतं तथापि ‘कर्मफलसम्बन्धस्य व्यतिकर:’ इत्ययं दोष: अस्ति एव।स्वामी एक:, तेन कर्मफलव्यतिकर: सम्भविष्यति एव।
वेदान्ती- नैवम्, असन्तते:।सन्तति: नाम सर्वै: शरीरै: सह सम्बन्ध:।स च कर्तु: भोक्तु: वा जीवस्य सर्वै: शरीरै: सह।एतादृशी सन्तति: नास्ति।
पू.- कथमुच्यते जीवानां परस्परं सन्तति: नास्तीति?
वे.- उपाधितन्त्रो जीव:।उपाधीनां सन्तति: नास्ति अत: जीवानामपि सन्तति: नास्ति।अत: कर्मव्यतिकर: फलव्यतिकर: वा न भविष्यति।
आभास एव च। २.३.५०
वे.- अस्माकं मते कर्मफलव्यतिकर: नास्तीत्यत्र अपरेयं युक्ति: उच्यते।जीव: च अयमाभास एव परमात्मन:।न साक्षात्परमात्मा, न वा वस्त्वन्तरम्।यथा एक: एव सूर्य: नानाजलेषु प्रतिबिम्बित: भवति। तेषु एक: प्रतिबिम्ब: कम्पते चेदपि अन्येषु प्रतिबिम्बेषु कम्प: न भवति।एवमेक: जीव: कर्मफलं भुङ्क्ते चेदन्येषां जीवानां कर्मफलसम्बन्धो न भवति।येषां (साङ्ख्यानां) मते बहव: आत्मान:, जते च सर्वे विभव:, तेषां मते अयं कर्मफलव्यतिकररूपो दोष: सम्भवति।
पू.-कथम्?
वे.- साङ्ख्यानां मते बहव: आत्मान:। ते विभव:, निर्गुणा:, चैतन्यमात्रस्वरूपा:।तेषां सर्वेषां साधारणमेकं प्रधानम्।प्रधाननिमित्ता पुरुषाणां भोगापवर्ग-सिद्धि:।तेन एकस्य सुखदु:खसम्बन्धे सर्वेषां सुखदु:खसम्बन्ध: प्राप्यते।
काणादानां मते बहवो विभव: आत्मान:।ते च स्वतोऽचेतना:।तेषामुपकरणभूतानि मनांसि। तानि अणूनि अचेतनानि च।आत्ममन:संयोगाद् इच्छादय: नव गुणा: (१इच्छा, २द्वेष:, ३सुखं, ४ दु:खं, ५ज्ञानं, ६प्रयत्न:, ७धर्म:, ८अधर्म:, ९संस्कार:) आत्मनि जायन्ते।अत्र यदैकेनात्मना मन: संयुज्यते, तदात्मान्तरै: अपि मनस: संयोग: अनिवार्य:।हेत्वविशेषात् फलाविशेष: इति न्यायेनैकस्यात्मन: सुखदु:खसंयोगे सति सर्वेषामात्मनां सुखदु:खयोगप्रसङ्ग:।
अदृष्टानियमात्।२.३.५१
पू.- साङ्ख्यानां वैशेषिकानां मते कर्मफलव्यतिरेकरूप: दोष: उक्त:।तस्य परिहार: अदृष्ट-निमित्तकस्य नियमस्य अङ्गीकारेण भविष्यति।
वे.- अदृष्टस्य अनियमादेतदपि न शक्यम्।
पू.- कथमदृष्टानियम:?
वे.-अदृष्टं नाम मनोवाक्कायै: अर्जितौ धर्माधर्मौ।साङ्ख्यमते एतौ धर्माधर्मौ प्रधाननिष्ठौ, न तु आत्मनिष्ठौ।प्रधानं तु सर्वेषाम् आत्मनां साधारणमेव।अत: पुन: कर्मफलव्यतिकर: सम्भवति। अदृष्टं तत्र नियामकं भवितुं नार्हति।
पू. – तर्हि काणादानां मते धर्माधर्मौ आत्मनिष्ठौ।तत्र कर्मफलव्यतिकर: न सम्भवति।
वे.- सम्भवति तत्रापि कर्मफलव्यतिकर:।काणादानां मते आत्ममन:संयोगाद् आत्मनि प्रयत्न: जायते।तत: मनोवाक्कायै: धर्माधर्मयो: अर्जनम्।परं बहव: विभव: आत्मान: काणादै: अभिमता:,तथैव बहूनि अणूनि मनांसि।अत: आत्ममन:संयोग: साधारण: एव भवति।किञ्चिद् मन: एकेन केनचिद् आत्मना सह यदा संयुज्यते, तदा अन्यै: अपि आत्मभि: संयुज्यते, आत्मनां विभुत्वात्।अत: अस्यैव आत्मन: इदमदृष्टं, न परस्य इति नियमे हेतु: नास्ति। तस्मात् तेषामपि कर्मफलव्यतिकरस्य दोष: अस्ति एव।
अभिसन्ध्यादिष्वपि चैवम्।२.३.५२
पू.- आत्मा कर्मादौ ‘अहमिदं करोमि, इदं परिहरामि’ इति एतादृशं मनसि अभिसन्दधाति।ते अभिसन्धय: अदृष्टानामात्मनां च मिथ: स्वस्वाभिमानं नियंस्यन्ति।
वे.- अभिसन्ध्यादीनामपि साधारण्यं विद्यते एव, यतो हि तद्धेतुभूत: आत्ममन:संयोग: साधारण:।तस्मात्पुन: आत्मनामदृष्टानां च व्यतिकर:।
प्रदेशादिति चेन्नान्तर्भावात्।२.३.५३
पू.- आत्मा विभु:।तथापि शरीरप्रतिष्ठेन मनसा सह शरीरावच्छिन्नात्मप्रदेशस्य संयोग: भवति। तेन प्रदेशकृता व्यवस्था भवति- अभिसन्ध्यादीनाम्, अदृष्टस्य,सुखदु:खयो: च।
वे.- नैतदपि साधु।
१ आत्मान: विभव: चेत् सर्वेषामात्मनां प्रत्येकं शरीरे अन्तर्भाव: अभ्युपेय:।तथा सति पुन: सुखदु:खादीनां व्यतिकर: स्यात्।
२ वैशेषिकै: आत्मन: शरीरावच्छेदेन प्रदेश: कल्प्यते।तद् नोचितम्।तथापि कल्पित- प्रदेशाङ्गीकारेऽपि तादृशेन कल्पितेन प्रदेशेन पारमार्थिकं कार्यं नियन्तुं न शक्यते।
३ शरीरमपि सर्वेषाम् आत्मनां सन्निधौ उत्पद्यते।‘एतद् अस्यात्मन: शरीरं, न परस्य’ इति नियामकं किमपि नास्ति।
४ ब्राह्मणादिशरीरदेशेषु अदृष्टनिष्पत्ति: भवति।तस्य फलं स्वर्गाद्युपभोग:।आत्मन: विभो: गति: न सम्भवति।कथं स: आत्मा स्वर्गोपभोगं लभेत? एवं प्रदेशवादिमते स्वर्गाद्यनुपभोगप्रसङ्ग: स्यात्।
अथ पृच्छ्यते, आत्मन: समानप्रदेशा: के?
पू.- रूपादय:।
वे.- तेषामपि धर्म्यंशेन अभेद:।बहूनामात्मनां लक्षणभेदो नास्ति।
पू.- अन्त्यविशेषवशाद् आत्मसु भेद: उपपन्न:।
वे.- भेदकल्पनाय अन्त्यविशेषकल्पनम्।अन्त्यविशेषकल्पनाय भेदस्य अङ्गीकार: इतीतरेतराश्रय-दोष:।अस्माकं मते आकाशादीनामपि विभुत्वं नाङ्गीक्रियते।अत: आत्मैकत्वपक्षे सर्वदोषाभाव:।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद: