व्याकरणमहाभाष्य खण्ड 61



(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१/६५) ह्वः सम्प्रसारणे योगविभागः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२/६५) ह्वः सम्प्रसारणे योगविभागः कर्तव्यः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३/६५) ह्वः सम्प्रसारणम् भवति णौ च संश्चङोः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४/६५) ततः अभ्यस्तस्य च ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५/६५) अभ्यस्तस्य च ह्वः सम्प्रसारणम् भवति इति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६/६५) किमर्थः योगविभागः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-७/६५) णौ संश्चङ्विषयाऋथः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-८/६५) णौ च संश्चङ्विषये ह्वः सम्प्रसारणम् यथा स्यात् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-९/६५) जुहावयिषति , अजूहवत् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१०/६५) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-११/६५) ह्वः अभ्यस्तस्य इति उच्यते न च एतत् ह्वः अभ्यस्तम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१२/६५) कस्य तर्हि ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१३/६५) ह्वाययतेः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१४/६५) ह्वः एतत् अभ्यस्तम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१५/६५) कथम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१६/६५) एकाचः द्वे प्रथमस्य ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१७/६५) एवम् तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१८/६५) कः तर्हि ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-१९/६५) ह्वाययतिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२०/६५) ह्वयतिः एव अत्र अभ्यस्तः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२१/६५) कथम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२२/६५) एकाचः द्वे प्रथमस्य इति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२३/६५) एवम् अपि अभ्यस्तिनिमित्ते अनभ्यस्तप्रसारणार्थम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२४/६५) अभ्यस्तिनिमित्ते इति वक्तव्यम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२५/६५) किम् प्रयोजनम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२६/६५) अनभ्यस्तप्रसारणार्थम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२७/६५) अनभ्यस्तस्य प्रसारणम् यथा स्यात् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२८/६५) जुहूषति , जोहूयते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-२९/६५) अभ्यस्तप्रसारणे हि अभ्यासप्रसारणाप्राप्तिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३०/६५) अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३१/६५) न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्रसज्येत ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३२/६५) न एषः दोषः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३३/६५) व्यवहितत्वात् न भविष्यति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३४/६५) समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३५/६५) समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः प्राप्नोति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३६/६५) समानाङ्गग्रहणम् तत्र चोदयिष्यति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३७/६५) कृदन्तप्रतिषेधार्थम् च ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३८/६५) कृदन्तप्रतिषेधार्थम् च अभ्यस्तिनिमित्ते इति वक्तव्यम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-३९/६५) किम् प्रयोजनम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४०/६५) ह्वायकम् इच्छति ह्वायकीयति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४१/६५) ह्वायकीयतेः सन् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४२/६५) जिह्वायकीयिषति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४३/६५) सः तर्हि निमित्तशब्दः उपादेयः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४४/६५) न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४५/६५) अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४६/६५) तत् यथा ॒ दधित्रपुसम् प्रत्यक्षः ज्वरः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४७/६५) ज्वरनिमित्तम् इति गम्यते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४८/६५) नड्वलोदकम् पादरोगः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-४९/६५) पादरोगनिमित्तम् इति गम्यते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५०/६५) आयुः घृतम् ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५१/६५) आयुषः निमित्तम् इति गम्यते ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५२/६५) अथ वा अकारः मत्वर्थीयः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५३/६५) अभ्यस्तम् अस्मिन् अस्ति सः अयम् अभ्यस्तः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५४/६५) अभ्यस्तस्य इति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५५/६५) अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५६/६५) का तर्हि ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५७/६५) सम्बन्धषष्ठी ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५८/६५) अभ्यस्तस्य यः ह्वयतिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-५९/६५) किम् च अभ्यस्तस्य ह्वयतिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६०/६५) प्रकृतिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६१/६५) ह्वः अभ्यस्तस्य प्रकृतेः इति ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६२/६५) योगविभागः तु कर्तव्यः एव ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६३/६५) न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६४/६५) किम् तर्हि ।

(पा-६,१.३२-३३; अकि-३,२९.८-३०.१४; रो-४,३४१-३४४; भा-६५/६५) ह्वाययतिः ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१/१५) अपस्पृधेथाम् इति किम् निपात्यते ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-२/१५) स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-३/१५) इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-४/१५) अस्पृधेथाम् इति भाषायाम् ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-५/१५) अपरः आह ॒ अपपूर्वात् स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-६/१५) इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-७/१५) अपास्पृधेथाम् इति भाषायाम् ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-८/१५) श्राताः श्रितम् इति किम् निपात्यते ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-९/१५) श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१०/१५) क्व पुनः श्राभावः क्व वा श्रिभावः ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-११/१५) सोमे श्राभावः अन्यत्र श्रिभावः ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१२/१५) न तर्हि इदानीम् इदम् भवति ॒ श्रितः सोमः इति ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१३/१५) बहुवचने श्राभावः ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१४/१५) न तर्हि इदानीम् इदम् भवति ॒ श्रिताः नः ग्रहाः इति ।

(पा-६,१.३६; अकि-३,३०.१७-३१.२; रो-४,३४४-३४५; भा-१५/१५) सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१/६१) किमर्थम् इदम् उच्यते ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२/६१) वचिस्पवियजादीनाम् ग्रहादीनाम् च सम्प्रसारणम् उक्तम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३/६१) तत्र यावन्तः यणः सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४/६१) इष्यते च परस्य यथा स्यात् न पूर्वस्य तत् च अन्तरेण यत्नम् न सिध्यति इति न सम्प्रसारणे सम्प्रसारणम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५/६१) किम् अन्ये अपि एवम् विधयः भवन्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-६/६१) अतः दीर्घः यञि ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-७/६१) सुपि च इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-८/६१) घटाभ्याम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-९/६१) अकारमात्रस्य दीर्घत्वम् कस्मात् न भवति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१०/६१) अस्ति अत्र विशेषः ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-११/६१) इयम् अत्र परिभाषा उपतिष्ठते ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१२/६१) अलः अन्त्यस्य इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१३/६१) ननु च इदानीम् एतया परिभाषया इह (ऋ॒ इह अपि) शक्यम् उपस्थातुम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१४/६१) न इति आह ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१५/६१) न हि वचिस्पवियजादीनाम् ग्रहादीनाम् च अन्त्यः यण् अस्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१६/६१) एवम् तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति अन्त्यसस्देशः यः यण् तस्य कार्यम् भविष्यति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१७/६१) न एतस्याः परिभाषायाः सन्ति प्रयोजनानि ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१८/६१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-१९/६१) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२०/६१) पीभाववचने एतत् प्रयोजनम् आपीनः अन्धुः , आपीनम् ऊधः एतत् रूपम् यथा स्यात् इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२१/६१) यदि च अत्र सर्वस्य यणः सम्प्रसारणम् स्यात् पीभाववचनम् अनर्थकम् स्यात् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२२/६१) सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धम् रूपम् स्यात् आपीनः अन्धुः , आपीनम् ऊधः इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२३/६१) पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२४/६१) ततः अयम् प्यायः पीभावम् शास्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२५/६१) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२६/६१) सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२७/६१) सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२८/६१) एवम् अपि ज्ञापकम् एव ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-२९/६१) कथम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३०/६१) प्यायः इति न एषा स्थानषष्ठी ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३१/६१) का तर्हि ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३२/६१) विशेषणषष्ठी ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३३/६१) प्यायः यः यण् इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३४/६१) तत् एतत् ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३५/६१) एवम् अपि अनैकान्तिकम् एतत् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३६/६१) एतावत् ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणम् भवति इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३७/६१) तत्र कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३८/६१) उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-३९/६१) एकयोगक्षणम् खलु अपि सम्प्रसारणम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४०/६१) तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४१/६१) प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् न अभिनिर्वृत्तस्य ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४२/६१) यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४३/६१) अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४४/६१) तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणम् इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४५/६१) न एषः दोषः ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४६/६१) यत् तावत् उच्यते उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४७/६१) इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायः गम्यते ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४८/६१) एतत् एव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यत् अयम् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधम् शास्ति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-४९/६१) यत् अपि उच्यते एकयोगलक्षणम् खलु अपि सम्प्रसारणम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५०/६१) तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५१/६१) प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५२/६१) अस्तु उभयोः अभिनिर्वृत्तिः ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५३/६१) न वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५४/६१) किम् तर्हि ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५५/६१) सम्प्रसारणाश्रयम् यत् प्राप्नोति तस्य प्रतिषेधम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५६/६१) ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५७/६१) यत् अपि उच्यते अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५८/६१) तत्र निमित्तसंश्रयः अनुपपन्नः इति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-५९/६१) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-६०/६१) तत् यथा इन्द्रार्था स्थूणा इन्द्रः इति एवम् इह अपि सम्प्रसारणार्थम् सम्प्रसारणम् ।

(पा-६,१.३७.१; अकि-३,३१.४-३२.१४; रो-४,३४५-३४७; भा-६१/६१) तत् यत् प्रसारणार्थम् प्रसारणम् तस्मिन् प्रतिषेधः भविष्यति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१/३०) अथ सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणग्रहणम् किमर्थम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२/३०) प्रसारणप्रकरणे पुनः प्रसारणग्रहणम् अतः अन्यत्र प्रसारणप्रतिषेधार्थम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-३/३०) सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (ऋ॒ सम्प्रसारणग्रहणे) एतत् प्रयोजनम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-४/३०) विदेशस्थम् अपि यत् सम्प्रसारणम् तस्य अपि प्रतिषेधः यथा स्यात् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-५/३०) व्यथः लिटि ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-६/३०) विव्यथे ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-७/३०) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-८/३०) हलादिशेषापवादः अत्र सम्प्रसारणम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-९/३०) इदम् तर्हि श्वयुवमघोनाम् अतद्धिते ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१०/३०) यूना , यूने ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-११/३०) उच्यमाने अपि एतस्मिन् न सिध्यति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१२/३०) किम् कारणम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१३/३०) उकारेण व्यवधानात् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१४/३०) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१५/३०) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१६/३०) एवम् तर्हि समानाङ्गग्रहणम् च ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१७/३०) समानाङ्गग्रहणम् च कर्तव्यम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१८/३०) न सम्प्रसारणे सम्प्रसारणम् समानाङ्गे इति वक्तव्यम् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-१९/३०) तत्र उपोषुषि दोषः ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२०/३०) तत्र उपोषुषि दोषः भवति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२१/३०) न वा यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् प्राप्तिप्रतिषेधात् ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२२/३०) न वा एषः दोषः ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२३/३०) किम् कारणम् यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२४/३०) अत्र च वसिः क्वसौ अङ्गम् क्वसन्तम् पुनः विभक्तौ ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२५/३०) अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२६/३०) यावत् ब्रूयात् प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२७/३०) अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तम् तदा वसेः भवति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२८/३०) अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-२९/३०) यावत् ब्रूयात् असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।

(पा-६,१.३७.२; अकि-३,३२.१५-३३.८; रो-४,३४७-३४९; भा-३०/३०) असिद्धत्वात् बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१/१८) ऋचि त्रेः उत्तरपदादिलोपः छन्दसि ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-२/१८) ऋचि त्रेः सम्प्रसारणम् वक्तव्यम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-३/१८) उत्तरपदादिलोपः छन्दसि वक्तव्यः ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-४/१८) तृचम् सूक्तम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-५/१८) तृचम् साम ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-६/१८) छन्दसि इति किम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-७/१८) त्र्यृचानि ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-८/१८) रयेः मतौ बहुलम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-९/१८) रयेः मतौ सम्प्रसारणम् बहुलम् वक्तव्यम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१०/१८) आ रेवान् एतु नः विशः ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-११/१८) न च भवति ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१२/१८) रयिमन् पुष्टिवर्धनः ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१३/१८) कक्ष्यायाः सञ्ज्ञायाम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१४/१८) कक्ष्यायाः सञ्ज्ञायाम् मतौ सम्प्रसारणम् वक्तव्यम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१५/१८) कक्षीवन्तम् यः आशिजः ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१६/१८) कण्वः कक्षीवान् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१७/१८) सञ्ज्ञायाम् इति किम् ।

(पा-६,१.३७.३; अकि-३,३३.९-१७; रो-४,३४९-३५०; भा-१८/१८) कष्यावान् हस्ती ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-१/११) वश्चास्यग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-२/११) अन्यतरस्याम् किति वेञः न सम्प्रसारणम् भवति इति एव सिद्धम् ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-३/११) कथम् ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-४/११) सम्प्रसारणे कृते उवङादेशे च द्विर्वचनम् सवर्णदीर्घत्वम् ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-५/११) तेन सिद्धम् ववतुः, ववुः , ऊवतुः, ऊवुः ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-६/११) वयेः अपि नित्यम् यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-७/११) त्रैशब्यम् च इह साध्यम् ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-८/११) तत् च एवम् सति सिद्धम् भवति ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-९/११) यदि एवम् ववौ, वविथ इति न सिध्यति ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-१०/११) ल्यपि च इति अनेन चकारेण लिट् अपि अनुकृष्यते ।

(पा-६,१.३९; अकि-३,३३.१९-३४.२; रो-४,३५०; भा-११/११) तस्मिन् नित्ये प्रसारणप्रतिषेधे प्राप्ते इयम् किति विभाषा आरभ्यते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१/८४) कथम् इदम् विज्ञायते ॒ एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२/८४) किम् च अतः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३/८४) यदि विज्ञायते ॒ एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४/८४) अथ विज्ञायते ॒ एजन्तन्तम् यत् उपदेशे इति न दोषः भवति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५/८४) ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६/८४) एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७/८४) अर्थवता व्यपदेशिवद्भावः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८/८४) ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-९/८४) अशिति इति उच्यते न च अत्र अशितम् पश्यामः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१०/८४) ननु च ककारः एव अत्र अशित् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-११/८४) न ककारे भवितव्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१२/८४) किम् कारणम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१३/८४) नञिवयुक्तम् अन्यसदृशाधिकरणे ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१४/८४) तथा हि अर्थगतिः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१५/८४) नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१६/८४) तथा हि अर्थः गम्यते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१७/८४) तत् यथा लोके ॒ अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१८/८४) न असौ लोष्टम् आनीय कृती भवति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-१९/८४) एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२०/८४) किम् च अन्यत् शित्सदृशम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२१/८४) प्रत्ययः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२२/८४) इह तर्हि ॒ ग्लै ॒ ग्लानीयम् , म्लै ॒ म्लानीयम् , वेञ् ॒ वानीयम् , शो ॒ निशामीयम् ॒ परत्वात् आयादयः प्राप्नुवन्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२३/८४) ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२४/८४) सन्तु ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२५/८४) आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२६/८४) ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२७/८४) न भविष्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२८/८४) अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-२९/८४) एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३०/८४) भवतु एव अत्र आत्त्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३१/८४) श्रवणम् कस्मात् न भवति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३२/८४) पूर्वत्वम् अस्य भविष्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३३/८४) न सिध्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३४/८४) इदम् इह सम्प्रधार्यम् ॒ आत्त्वम् क्रियताम् पूर्वत्वम् इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३५/८४) किम् अत्र कर्तव्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३६/८४) परत्वात् पूर्वत्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३७/८४) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३८/८४) आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-३९/८४) किम् अत्र कर्तव्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४०/८४) परत्वात् आत्त्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४१/८४) नित्यम् सम्प्रसारणम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४२/८४) कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४३/८४) आत्त्वम् अपि नित्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४४/८४) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४५/८४) अनित्यम् आत्त्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४६/८४) न हि कृते सम्प्रसारणे प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४७/८४) किम् कारणम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४८/८४) अन्तरङ्गम् पूर्वत्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-४९/८४) तेन बाध्यते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५०/८४) यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५१/८४) न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५२/८४) अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५३/८४) उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५४/८४) कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५५/८४) अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५६/८४) उपदेशग्रहणम् न करिष्यते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५७/८४) यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५८/८४) न एषः दोषः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-५९/८४) आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६०/८४) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६१/८४) नियमार्थम् एतत् स्यात् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६२/८४) क्रीङ्जीणाम् णौ एव इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६३/८४) यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६४/८४) इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६५/८४) अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६६/८४) यदि हि बाधेरन् शिति अपि बाधेरन् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६७/८४) अथ वा पुनः अस्तु एच् यः उपदेशे इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६८/८४) ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-६९/८४) अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७०/८४) आत्त्वे एशि उपसङ्ख्यानम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७१/८४) आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७२/८४) जग्ले मम्ले ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७३/८४) अशिति इति प्रतिषेधः प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७४/८४) न एषः दोषः ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७५/८४) न एवम् विज्ञायते ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७६/८४) शकारः इत् यस्य सः अयम् शित् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७७/८४) न शित् अशित् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७८/८४) अशिति इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-७९/८४) कथम् तर्हि ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८०/८४) शकारः इत् शित् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८१/८४) न शित् शित् अशित् ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८२/८४) अशिति इति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८३/८४) यदि एवम् स्तनन्धयः इति अत्र अपि प्राप्नोति ।

(पा-६,१.४५.१; अकि-३,३४.६-३५.१९; रो-४,३५१-३५५; भा-८४/८४) अत्र अपि शप् शित् भवति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१/७३) किम् पुनः अयम् पर्युदासः ॒ यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः ॒ शिति न इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२/७३) कः च अत्र विशेषः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३/७३) अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४/७३) अशिति एकादेशे प्रतिषेधः वक्तव्यः ॒ ग्लायन्ति म्लयन्ति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५/७३) किम् कारणम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६/७३) आदिवत्त्वात् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-७/७३) शिदशितोः एकादेशः आदिवत् स्यात् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-८/७३) अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-९/७३) प्रत्ययविधिः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१०/७३) प्रत्ययविधिः च न सिध्यति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-११/७३) सुग्लः सुम्लः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१२/७३) आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१३/७३) अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१४/७३) अभ्यासरूपम् च ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१५/७३) अभ्यासरूपम् च न सिध्यति ॒ जग्ले मम्ले ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१६/७३) इवर्णाभ्यासता प्राप्नोति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१७/७३) अयवायावाम् प्रतिषेधः च ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१८/७३) अयवायावाम् च प्रतिषेधः वक्तव्यः ॒ ग्लै ॒ ग्लानीयम् , म्लै ॒ म्लानीयम् , वेञ् ॒ वानीयम् , शो ॒ निशामीयम् ॒ परत्वात् आयादयः प्राप्नुवन्ति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-१९/७३) अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२०/७३) शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२१/७३) शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२२/७३) दिवः नः वृष्टिम् मरुतः ररीध्वम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२३/७३) लुक् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२४/७३) त्राध्वम् नः देवा निजुरः वृकस्य ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२५/७३) शिशीते शृङ्गे रक्षसे विनिक्षे ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२६/७३) न एषः दोषः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२७/७३) इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२८/७३) न एतत् रै इति अस्य रूपम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-२९/७३) कस्य तर्हि ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३०/७३) रातेः दानकर्मणः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३१/७३) शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३२/७३) कस्य तर्हि ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३३/७३) शीङः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३४/७३) श्यत्यर्थः वै गम्यते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३५/७३) कः पुनः श्यतेः अर्थः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३६/७३) श्यतिः निशाने वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३७/७३) शीङ् अपि श्यत्यर्थे वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३८/७३) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-३९/७३) बह्वर्थाः अपि धातवः भवन्ति इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४०/७३) तत् यथा ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४१/७३) वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४२/७३) केशान् वपति इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४३/७३) ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४४/७३) अग्निः वै इतः वृष्टिम् ईट्टे ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४५/७३) मरुतः अमुतः च्यावयन्ति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४६/७३) करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४७/७३) पृष्ठम् कुरु ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४८/७३) पादौ कुरु ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-४९/७३) उन्मृदान इति गम्यते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५०/७३) निक्षेपणे च अपि दृश्यते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५१/७३) कटे कुरु ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५२/७३) घटे कुरु ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५३/७३) अश्मानम् इतः कुरु ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५४/७३) स्थापय इति गम्यते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५५/७३) सर्वेषाम् एव परिहारः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५६/७३) शिति इति उच्यते न च अत्र शितम् पश्यामः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५७/७३) प्रत्ययलक्षणेन ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५८/७३) न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-५९/७३) त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६०/७३) अथ वा पुनः अस्तु पर्युदासः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६१/७३) ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६२/७३) न एषः दोषः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६३/७३) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६४/७३) यत् अपि प्रत्ययविधिः इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६५/७३) आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६६/७३) यत् अपि अभ्यासरूपम् इति ॒ प्रत्याख्यायते सः योगः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६७/७३) अथ अपि क्रियते एवम् अपि न दोषः ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६८/७३) कथम् ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-६९/७३) लिटि इति अनुवर्तते ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-७०/७३) द्विलकारकः च अयम् निर्देशः ॒ लिटि लकारादौ इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-७१/७३) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-७२/७३) यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति ।

(पा-६,१.४५.२; अकि-३,३५.२०-३७.५; रो-४,३५५-३५८; भा-७३/७३) शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१/२१) प्रातिपदिकप्रतिषेधः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-२/२१) प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-३/२१) गोभ्याम् , गोभिः , नौभ्याम् , नौभिः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-४/२१) सः तर्हि वक्तव्यः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-५/२१) न वक्तव्यः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-६/२१) आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानाम् आत्त्वम् भवति इति यत् अयम् रायः हलः इति आत्त्वम् शास्ति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-७/२१) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-८/२१) नियमार्थम् एतत् स्यात् ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-९/२१) रायः हलि एव इति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१०/२१) यत् तर्हि आ ओतः अम्शसोः इति आत्त्वम् शास्ति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-११/२१) एतस्य अपि अस्ति वचने प्रयोजनम् ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१२/२१) अमि वृद्धिबाधनार्थम् एतत् स्यात् शसि प्रतिषेधार्थम् च ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१३/२१) तस्मात् प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१४/२१) न वक्तव्यः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१५/२१) धात्वधिकारात् प्रातिपदिकस्याप्राप्तिः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१६/२१) धात्वधिकारात् प्रातिपदिकस्य आत्त्वम् न भविष्यति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१७/२१) धातोः इति वर्तते ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१८/२१) क्व प्रकृतम् ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-१९/२१) लिटि धातोः अनभ्यासस्य इति ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-२०/२१) अथ अपि निवृत्तम् एवम् अपि अदोषः ।

(पा-६,१.४५.३; अकि-३,३७.६-१६; रो-४,३५८-३५९; भा-२१/२१) उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-१/१०) आत्त्वे णौ लीयतेः उपसङ्ख्यानम् प्रलम्भनशालीनीकरणयोः ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-२/१०) आत्त्वे णौ लीयतेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-३/१०) किम् प्रयोजनम् ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-४/१०) प्रलम्भने च अर्थे शालीनीकरणे च नित्यम् आत्त्वम् यथा स्यात् ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-५/१०) प्रलम्भने तावत् ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-६/१०) जटाभिः आलापयते ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-७/१०) श्मश्रुभिः आलापयते ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-८/१०) शालीनीकरणे ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-९/१०) श्येनः वार्तिकम् उल्लापयते ।

(पा-६,१.४८; अकि-३,३७.१८-२२; रो-४,३५९; भा-१०/१०) रथी रथिनम् उपलपयते ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-१/११) सिध्यतेः अज्ञानार्थस्य ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-२/११) सिध्यतेः अज्ञानार्थस्य इति वक्तव्यम् ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-३/११) इतरथा हि अनिष्टप्रसङ्गः ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-४/११) अपारलौकिके इति उच्यमाने अनिष्टम् प्रसज्येत ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-५/११) अन्नम् साधयति ब्राह्मणेभ्यः दास्यामि इति ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-६/११) अस्ति पुनः अयम् सिध्यतिः क्व चित् अन्यत्र वर्तते ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-७/११) अस्ति इति आह ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-८/११) तपः तापसम् सेधयति ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-९/११) ज्ञानम् अस्य प्रकाशयति ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-१०/११) स्वानि एव एनम् कर्माणि सेधयन्ति ।

(पा-६,१.४९; अकि-३,३८.२-८; रो-४,३६०-३६१; भा-११/११) ज्ञानम् अस्य प्रकाशयन्ति इति अर्थः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१/५३) मीनात्यादीनाम् आत्त्वे उपदेशवचनम् प्रत्ययविध्यर्थम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२/५३) मीनात्यादीनाम् आत्त्वे उपदेशिवद्भावः वक्तव्यः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३/५३) उपदेशावस्थायाम् आत्त्वम् भवति इति वक्तव्यम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४/५३) किम् प्रयोजनम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-५/५३) प्रत्ययविध्यर्थम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-६/५३) उपदेशावस्थायाम् आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-७/५३) के पुनः प्रत्ययाः उपदेशिवद्भावम् प्रयोजयन्ति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-८/५३) काः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-९/५३) काः तावत् न प्रयोजयन्ति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१०/५३) किम् कारणम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-११/५३) एचः इति उच्यते न च केषु एच् अस्ति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१२/५३) णघञ्युज्विधयः तर्हि प्रयोजयन्ति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१३/५३) ण ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१४/५३) अवदायः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१५/५३) आतः इति णः सिद्धः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१६/५३) घञ् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१७/५३) अवदायः वर्तते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१८/५३) आतः इति घञ् सिद्धः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-१९/५३) किम् च भो आतः इति भञ् उच्यते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२०/५३) न खलु अपि आतः इति उच्यते आतः तु विज्ञायते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२१/५३) कथम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२२/५३) अविशेषेण घञ् उत्सर्गः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२३/५३) तस्य इवर्णान्तात् उवर्णान्तात् च अजपौ अपवादौ ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२४/५३) तत्र उपदेशावस्थायाम् आत्त्वे कृते अपवादस्य निमित्तम् न अस्ति इति कृत्वा उत्सर्गेण घञ् सिद्धः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२५/५३) एवम् च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२६/५३) युच् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२७/५३) ईषदवदानम् स्ववदानम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२८/५३) आतः इति युच् सिद्धः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-२९/५३) इदम् विप्रतिषिद्धम् एचः उपदेशः इति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३०/५३) यदि एचः न उपदेशे अथ उपदेशे न एचः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३१/५३) एचः च उपदेशे च इति विप्रतिषिद्धम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३२/५३) न एतत् विप्रतिषिद्धम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३३/५३) आह अयम् एचः उपदेशे इति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३४/५३) यदि एचः न उपदेशे अथ उपदेश न एचः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३५/५३) ते वयम् विषयम् विज्ञास्यामः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३६/५३) एज्विषये इति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३७/५३) तत् तर्हि उपदेशग्रहणम् कर्तव्यम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३८/५३) न कर्तव्यम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-३९/५३) प्रकृतम् अनुवर्तते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४०/५३) क्व प्रकृतम् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४१/५३) आत् एचः उपदेशे इति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४२/५३) तत् वै प्रकृतिविशेषणम् विषयविशेषणेन च इह अर्थः ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४३/५३) न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४४/५३) न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४५/५३) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४६/५३) यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४७/५३) शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४८/५३) यत् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-४९/५३) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-५०/५३) भवेत् द्रव्येषु एतत् एवम् स्यात् ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-५१/५३) शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-५२/५३) तत् यथ गौः शुक्लः अश्वः च ।

(पा-६,१.५०.१; अकि-३,३८.१०-३९.१२; रो-४,३६१-३६३; भा-५३/५३) शुक्लः इति गम्यते ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-१/९) निमिमीलियाम् खलचोः प्रतिषेधः ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-२/९) निमिमीलियाम् खलचोः प्रतिषेधः वक्तव्यः ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-३/९) ईषन्निमयम् , सुनिमयम् , निमयः वर्तते ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-४/९) मि ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-५/९) मी ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-६/९) ईषप्रमयम् , सुप्रमयम् , प्रमयः वर्तते , प्रमयः ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-७/९) मी ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-८/९) ली ।

(पा-६,१.५०.२; अकि-३,३९.१३-१६; रो-४,३६४; भा-९/९) ईषद्विलयम् , सुविलयम् , विलयः वर्तते , विलयः ।

(पा-६,१.५१; अकि-३,३९.१८; रो-४,३६४; भा-१/२) किम् इदम् लीयतेः इति ।

(पा-६,१.५१; अकि-३,३९.१८; रो-४,३६४; भा-२/२) लिनातिलीयत्योः यका निर्देशः ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-१/१२) हेतुभये इति किमर्थम् ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-२/१२) कुञ्चिकया एनम् भाययति ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-३/१२) अहिना एनम् भाययति ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-४/१२) हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-५/१२) एतत् अपि हि हेतुभयम् ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-६/१२) हेतुभये इति न एवम् विज्ञायते ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-७/१२) हेतोः भयम् हेतुभयम् ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-८/१२) हेतुभये इति ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-९/१२) कथम् तर्हि ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-१०/१२) हेतुः एव भयम् हेतुभयम् ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-११/१२) हेतुभये इति ।

(पा-६,१.५६; अकि-३,३९.२०-२३; रो-४,३६४-३६५; भा-१२/१२) यदि सः एव हेतुः भयम् भवति इति ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-१/१२) अमि सङ्ग्रहणम् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-२/१२) अमि सङ्ग्रहणम् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-३/१२) किम् इदम् सङ् इति ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-४/१२) प्रत्याहारग्रहणम् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-५/१२) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-६/१२) सनः प्रभृति आ महिङः ङकारात् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-७/१२) किम् प्रयोजनम् । क्विप्प्रतिषेधाऋथम् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-८/१२) क्विबन्तस्य मा भूत् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-९/१२) रज्जुसृड्भ्याम् , रज्जुसृड्भिः , देवदृग्भ्याम् , देवदृग्भिः ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-१०/१२) उक्तम् वा ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-११/१२) किम् उक्तम् ।

(पा-६,१.५८; अकि-३,४०.२-८; रो-४,३६५; भा-१२/१२) धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात् सिद्धम् इति ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-१/१२) शीर्षन् छन्दसि प्रकृत्यन्तरम् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-२/१२) शीर्षन् छन्दसि प्रकृत्यन्तरम् द्रष्टव्यम् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-३/१२) किम् प्रयोजनम् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-४/१२) किम् प्रयोजनम् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-५/१२) आदेशप्रतिषेधार्थम् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-६/१२) आदेशः मा विज्ञायि ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-७/१२) प्रकृत्यन्तरम् यथा विज्ञायेत ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-८/१२) किम् च स्यात् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-९/१२) अस्कारान्तस्य छन्दसि श्रवणम् न स्यात् ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-१०/१२) शिरः मे शीर्यशः मुखम् (ऋ॒ शीर्यते मुखे ) ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-११/१२) इदम् ते शिरः भिनद्मि इति ।

(पा-६,१.६०; अकि-३,४०.१०-१५; रो-४,३६५-३६६; भा-१२/१२) तत् वै अथर्वणः शिरः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१/३६) ये च तद्धिते शिरसः आदेशार्थम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२/३६) ये च तद्धिते इति अत्र शिरसः ग्रहणम् कर्तव्यम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३/३६) किम् प्रयोजनम् ।आदेशार्थम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-४/३६) आदेशः यथा विज्ञायेत ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-५/३६) प्रकृत्यन्तरम् मा विज्ञायि ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-६/३६) किम् च स्यात् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-७/३६) यकारादौ तद्धिते अस्कारान्तस्य श्रवणम् प्रसज्येत ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-८/३६) शीर्षण्यः हि मुख्यः भवति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-९/३६) शीर्षण्यः खरः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१०/३६) वा केशेषु ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-११/३६) वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१२/३६) शीर्षण्याः केशाः , शिरस्याः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१३/३६) अचि शीर्षः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१४/३६) अचि परतः शिरसः शीर्षभावः वक्तव्यः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१५/३६) हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१६/३६) छन्दसि च ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१७/३६) छन्दसि च शिरसः शीर्षभावः वक्तव्यः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१८/३६) द्वे शीर्षे ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-१९/३६) इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२०/३६) अस्तु ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२१/३६) नः तद्धिते इति टिलोपः भविष्यति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२२/३६) न सिध्यति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२३/३६) ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२४/३६) यदि पुनः ये अचि तद्धिते इति उच्येत ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२५/३६) किम् कृतम् भवति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२६/३६) इञि शीर्षन्भावे कृते टिलोपेन सिद्धम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२७/३६) न एवम् शक्यम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२८/३६) इह हि स्थूलशिरसः इदम् स्थौलशीर्षम् इति अनणि इति प्रकृतिभावः प्रसज्येत ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-२९/३६) तस्मात् न एवम् शक्यम् ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३०/३६) न चेत् एवम् शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३१/३६) पाक्षिकः एषः दोषः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३२/३६) कतरस्मिन् पक्षे ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३३/३६) ष्यङ्विधौ द्वैतम् भवति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३४/३६) अणिञोः वा आदेशः ष्यङ् अणिञ्भ्याम् वा परः इति ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३५/३६) तत् यदा तावद् अणिञोः आदेशः तदा एषः दोषः ।

(पा-६,१.६१; अकि-३,४०.१७-४१.१६; रो-४,३६६-३६८; भा-३६/३६) यदा हि अणिञ्भ्याम् परः न तदा दोषः भवति अणिञ्भ्याम् व्यवहितत्वात् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१/३५) शस्प्रभृतिषु इति उच्यते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२/३५) अशस्प्रभृतिषु अपि दृश्यते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३/३५) शला दोषणी ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-४/३५) ककुत् दोषणी ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-५/३५) याचते महादेवः ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-६/३५) पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-७/३५) पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-८/३५) मांस् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-९/३५) यत् नीक्षणम् मांस्पचन्याः ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१०/३५) मांसपचन्याः इति प्राप्ते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-११/३५) मांस् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१२/३५) पृत्. पृत्सु मर्त्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१३/३५) पृतनासु मर्त्यम् इति प्राप्ते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१४/३५) पृत् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१५/३५) स्नु ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१६/३५) न ते दिवः न पृथिव्यः अधि स्नुषु ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१७/३५) अधि सानुषु इति प्राप्ते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१८/३५) नस् नासिकायाः यत्तस्क्षुद्रेषु ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-१९/३५) यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२०/३५) यत् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२१/३५) नस्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२२/३५) यत् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२३/३५) तस् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२४/३५) नस्तः ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२५/३५) तस्. क्षुद्र ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२६/३५) नःक्षुद्रः ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२७/३५) अवर्णनगरयोः इति वक्तव्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२८/३५) इह मा भूत् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-२९/३५) नासिक्यः वर्णः , नासिक्यम् नगरम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३०/३५) तत् तर्हि वक्तव्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३१/३५) न वक्तव्यम् ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३२/३५) इह तावत् नासिक्यः वर्णः इति ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३३/३५) परिमुखादिषु पाठः करिष्यते ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३४/३५) नासिक्यम् नगरम् इति ।

(पा-६,१.६३; अकि-३,४१.१९-४२.६; रो-४,३६८-३६९; भा-३५/३५) सङ्काशादिषु पाठः करिष्यते ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१/५०) धातुग्रहणम् किमर्थम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२/५०) इह मा भूत् ॒ षोडन् , षण्डः , षोडिकः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३/५०) अथ आदिग्रहणम् किमर्थम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४/५०) इह मा भूत् ॒ पेष्टा पेष्टुम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-५/५०) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-६/५०) अस्तु अत्र सत्वम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-७/५०) सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-८/५०) इदम् तर्हि ॒ लषिता लषितुम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-९/५०) इदम् च अपि उदार्हरणम् ॒ पेष्टा पेष्टुम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१०/५०) ननु च उक्तम् अस्तु अत्र सत्वम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-११/५०) सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति इति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१२/५०) न एवम् शक्यम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१३/५०) इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात् षढोः कः सि इति कत्वम् न स्यात् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१४/५०) सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१५/५०) सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः वक्तव्यः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१६/५०) सुब्धातु ॒ षोडीयति षण्डीयति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१७/५०) ष्ठिवु ॒ ष्ठीवति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१८/५०) ष्वष्क् ॒ ष्वष्कते ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-१९/५०) सुब्धातूनाम् तावत् न वक्तव्यः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२०/५०) उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२१/५०) यदि एवम् न अर्थः धातुग्रहणेन ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२२/५०) कस्मात् न भवति षोडन् , षण्डः , षोडिकः इति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२३/५०) उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२४/५०) ष्ठिवेः अपि द्वितीयः वर्णः ठकारः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२५/५०) यदि ठकारः तेष्ठीव्यते इति न सिध्यति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२६/५०) एवम् तर्हि थकारः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२७/५०) यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२८/५०) एवम् तर्हि द्वौ इमौ ष्ठिवू ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-२९/५०) अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३०/५०) यस्य थकारः तस्य सत्वम् प्राप्नोति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३१/५०) एवम् तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३२/५०) किम् कृतम् भवति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३३/५०) पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वम् भविष्यति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३४/५०) न एवम् शक्यम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३५/५०) इह हि श्वलिट् ष्ठीवति मधुलिट् ष्वष्कते ष्टुत्वस्य असिद्धत्वात् डः सि धुट् इति धुट् प्रसज्येत ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३६/५०) एवम् तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३७/५०) किम् यकारः न श्रूयते ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३८/५०) लुप्तनिर्दिष्टः यकारः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-३९/५०) अथ किमर्थम् षकारम् उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४०/५०) लघ्वर्थम् इति आह ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४१/५०) कथम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४२/५०) अविशेषेण अयम् षकारम् उपदिश्य सकारम् आदेशम् उक्त्वा लघुना उपायेन षत्वम् निर्वर्तयति आदेशप्रत्यययोः इति ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४३/५०) इतरथा हि येषाम् षत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४४/५०) के पुनः षोपदेशाः धातवः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४५/५०) पठितव्याः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४६/५०) कः अत्र भवतः पुरुषकारः ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४७/५०) यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४८/५०) अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-४९/५०) कथम् ।

(पा-६,१.६४; अकि-३,४२.८-४३.१०; रो-४,३६९-३७१; भा-५०/५०) अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-१/१२) अथ किमर्थम् णकारम् उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-२/१२) लघ्वर्थम् इति आह ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-३/१२) कथम् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-४/१२) अविशेषेण अयम् णकारम् उपदिश्य नकारम् आदेशम् उक्त्वा लघुना उपायेन णत्वम् निर्वर्तयति उपसर्गात् असमासे अपि णोपदेशस्य इति ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-५/१२) इतरथा हि येषाम् णत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-६/१२) के पुनः णोपदेशाः धातवः ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-७/१२) पठितव्याः ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-८/१२) कः अत्र भवतः पुरुषकारः ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-९/१२) यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-१०/१२) अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-११/१२) कथम् ।

(पा-६,१.६५; अकि-३,४३.१२-१८; रो-४,३७२; भा-१२/१२) सर्वे नादयः णोपदेशाः नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनृ̄वर्जम् ।