तदन्तरप्रतिपत्त्यधिकरणम्

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम्।३.१.१
विषय: -
विशय: - जीव: पूर्वदेहं विहाय देहान्तरं प्राप्नोति इति अवगतम्।स किं देहबीजै: भूतसूक्ष्मै: संपरिष्वक्त: याति अथवा असंपरिष्वक्त: याति?
पू.- असंपरिष्वक्त: याति, भूतोपादानस्याश्रवणात्।
‘स एतास्तेजोमात्रा: समभ्याददान:’ (बृ.४.४.१)
इति तेजोमात्रशब्देन करणानाम् उपादानम् उक्तम्।एवं भूतमात्रोपादानप्रतिपादकं वचनं नास्ति।
वे.- ‘तेजोमात्रा:’ इति शब्देन करणानां ग्रहणं कुत: क्रियते?
पू.- वाक्यशेषे चक्षुरादिसङ्कीर्तनात्।
वे.-तदन्तरप्रतिपत्तौ संपरिष्वक्त: एव रंहति।तदन्तरप्रतिपत्ति: इति देहान्तरप्राप्ति:।संपरिष्वक्त: परिवेष्टित:।देहबीजै: भूतसूक्ष्मै: परिवेष्टित: इत्यर्थ:।रंहति गच्छति।प्रश्ननिरूपणाभ्याम् इति हेतुप्रदर्शनम्।
पू.- क: प्रश्न? किं निरूपणम्?
वे.- ‘वेत्था यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति’ (छा.५.३.३)
इति प्रश्न:।निरूपणमिति उत्तरम्।द्यु-पर्जन्य-पृथिवी-योषित्सु पञ्च आहुतयो दर्शिता:।तत: प्रतिवचनमुक्तम् – ‘इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति’ (छा.५.९.१)तस्माद् अद्भि: परिवेष्टितो जीव: रंहतीति ज्ञायते।
पू.प.-अत्र पञ्चम्या: आहुते: निर्देश: विद्यते परमन्यस्यां श्रुतौ (बृ.४.४.३)जीव: जलूकावत् पूर्वदेहं तावद् न त्यजति, यावद् देहान्तरं न प्राप्नोति इति उक्तम्।तत्र जीव: संपरिष्वक्त: रंहतीति कथमुच्यते?
वे.-तत्रापि अप्परिवेष्टित: एव जीव: रंहति।जलूकोपमानेन तस्य नवीनदेहप्राप्तये दीर्घीभावमात्रम् उपमीयते।अत: न कश्चिद् विरोध:।
पू.प.- एवं देहाद् देहान्तरप्राप्तिविषये अन्येऽपि केचन प्रकारा: सन्ति।तत्र संपरिष्वक्त: रंहतीति कथम् उपपन्नं स्यात्?
वे.- के ते प्रकारा:?
पू.प.-
१ केवल आत्मा देहान्तरं लभते इन्द्रियाणि तु तस्मिन् तस्मिन् देहे अभिनवानि एव उत्पद्यन्ते इति सौगतानां मतम्।
२ केवलं मन: जीवेन सह देहान्तरं यातीति वैशेषिका: वदन्ति।
३ यथा शुक: वृक्षाद् वृक्षान्तरम् उत्प्लुत्य याति तथा जीवोऽपि देहाद् देहान्तरम् उत्प्लुत्य यातीति दिगम्बराणाम् अभिप्राय:।
वे.- एता: सर्वा: पुरुषमतिप्रभवा: कल्पना:।एता: अपौरुषेयश्रुत्या विरुद्ध्यन्ते, अत: अनादर्तव्या:।
पू.- ननु उक्ताभ्यां प्रश्ननिरूपणाभ्यां केवलम् अद्भि: संपरिष्वक्त: जीव: रंहतीति सिद्ध्यति।सर्वै: भूतसूक्ष्मै: संपरिष्वक्त: जीव: रंहतीति कथं सिद्ध्येत्?

त्र्यात्मकत्वात्तु भूयस्त्वात्।३.१.२
वे.- तुशब्देन आशङ्कां छिनत्ति।त्र्यात्मकत्वात् इत्यस्य ‘अपां’ तथा ‘देहानाम्’ इति उभाभ्यामपि सम्बन्ध: ज्ञेय:।
१ अपां त्र्यत्मकत्वात् – त्रिवृत्करणश्रुते: आप: त्र्यात्मिका: इति अवगतम्।अत: अप्परिवेष्टित: जीव: रंहतीति तेजोबन्नपरिवेष्टित: एव जीव: रंहतीति अभ्युपगन्तव्यम्।
२ देहानां त्र्यात्मकत्वात्- त्र्यात्मको देह:,वातपित्तकफात्मक: इति। तस्योत्पत्ति: केवलाभि: अद्भि: न शक्या।अतोऽपि जीव: पञ्चभि: भूतसूक्ष्मै: परिवेष्टितो रंहतीति अभ्युपगन्तव्यम्।
पू.- एवं चेत्, ‘… आप: पुरुषवचसो भवन्ति’ इति अपामेव उल्लेख: किमर्थम्?
वे.- भूयस्त्वात्।पुरुषदेहे अपां भूयस्त्वं दृश्यते अत: केवलं तस्य उल्लेख:।
पू.- ननु देह: पार्थिव:।तत्र अपां भूयस्त्वं कथमुच्यते?
वे.- इतरापेक्षया पृथिव्या बाहुल्याद् देह: पार्थिव: उच्यते। तथापि अपां बाहुल्यं न निराक्रियते यथा-
१ देहबीजं शुक्रशोणितम् अब्बहुलम्।
२ देहारम्भे निमित्तकारणम् अग्निहोत्रादि कर्म, तच्च सोमाज्यप्रभृतिद्रवद्रव्यव्यपाश्रयम्।
अत: अपां बाहुल्यं देहे।तस्मात् अप्छब्देन सर्वेषां देहबीजानां भूतसूक्ष्माणां ग्रहणं न्याय्यम्।

प्राणगतेश्च।३.१.३
वे.- देहान्तरप्रतिपत्तौ प्राणानां गति: भवति, ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ.४.४.२)।प्राणाश्रय: भूतानि।प्राणगति: आश्रयं विना न सम्भवतीति प्राणगते: भूतसूक्ष्मगतिरनुमीयते।

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्।३.१.४
पू.- देहान्तरप्रतिपत्तौ प्राणा: जीवेन सह गच्छन्तीति यदुच्यते, तदसत्।वागादीनां प्राणानाम् अग्न्यादिगति: श्रुत्या उक्ता- ‘यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति वातं प्राण:।(बृ.३.२.१३)
वे.- वागादीनाम् अग्न्यादिगतिश्रुति: गौणी मन्तव्या।यतो हि तत्रैवोक्तम् –
‘ओषधीर्लोमानि, वनस्पतीन् केशा:’ (बृ.३.२.१३)
इति।न च मृतस्य केशलोमानि गच्छन्तीति दृश्यते अत: गौणी मन्तव्येयं श्रुति:।अत्र गमनशब्देन ‘उपकारनिवृत्ति:’ इत्यर्थो बोद्धव्य:।जीवितस्य वागादीनि अग्न्यादिभि: उपकृतानि भवन्ति।मृत्यो: अनन्तरं समाप्यते स उपकार:।सैषा उपकारनिवृत्ति: एवात्र गमनशब्देन ग्राह्या। यदि गमनशब्दस्य मुख्यार्थ: अत्र गृह्यते, तर्हि अपरेऽपि दोषा: उद्भवन्ति।
पू.- के दोषा: उद्भवन्ति?
वे.- प्राणरूप: उपाधि: देहाद् देहान्तरं न याति चेत् जीवस्य गमनमपि नावकल्पते।न च प्राणैर्विना देहान्तरे उपभोग: जीवस्य उपपद्यते।तस्मात् ‘पुरुषस्य मृतस्य अग्निं वागप्येत...’ इत्यत्र गमनशब्दस्य मुख्योऽर्थ: त्यक्तव्य:।‘देवतानां स्वस्वेन्द्रियेषु उपकारनिवृत्ति:’ इत्येव गौण: अर्थ: स्वीकार्य:।

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते:।३.१.५
पू.- छान्दोग्ये पञ्च यज्ञा वर्णिता:।तत्र प्रथमे यज्ञे श्रद्धारूपा आहुति: उक्ता।द्वितीयादिषु सोमादीनाम् आहुति: उक्ता।उपसंहारे उक्तम्- पञ्चम्याम् आहुतावाप: पुरुषवचसो भवन्ति(छा.५.३.३)
इति।द्वितीयादिषु यागेषु सोमादिद्रव्याणि अब्बहुलानि भवन्ति इति मतं चेदपि प्रथमे यागे अब्बहुलाहुते: अश्रवणात् ‘पञ्चम्याम् आहुतावाप: पुरुषवचसो भवन्ति इति वचनस्य निर्धारणं न शक्यते।
वे.-प्रथमाहुति: श्रद्धा।‘तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति (छा.५.४.२)अत्र श्रद्धाशब्देन ता: आप: एव ग्राह्या:।
पू.- साहसमेतद् यत् श्रद्धाशब्दस्य आप: इति अर्थ: परिकल्प्यते।
वे.- अत्र श्रद्धाशब्देन ता: एव आप: ग्राह्या:, उपपत्ते:।प्रकृतप्रकरणे उद्दालक: श्वेतकेतुं प्रश्नं करोति,
‘‘वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति?’’
तत्र श्वेतकेतु: उवाच, ‘‘नैव भगव:’’
इति।अथास्य प्रश्नस्य निरूपणार्थं पञ्चानां यज्ञानां विवरणं करोत्युद्दालक:।यदि पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति प्रश्नस्य निरूपणे स: अब्भिन्नां श्रद्धाख्यां काञ्चिद् आहुतिं वर्णयति,तर्हि तदनुपपन्नं स्यात्, प्रश्नप्रतिवचनयो: एकवाक्यता न स्यात्।उपसंहारे ‘इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति’ इति यदुक्तं तदपि प्रथमाहुतौ श्रद्धाशब्देन अब्ग्रहणे एव उपपन्नं स्यात्। युक्तिरप्यत्र विद्यते।प्रथमाहुतौ या श्रद्धा उक्ता, सा एव क्रमश: स्थूलीभवति। सोमवृष्ट्यादिक्रमेण पुरुषाख्या भवति।यदि सोमादिकं श्रद्धाकार्यम् अब्बहुलं, तर्हि श्रद्धा आप: एव भवितुमर्हति।यतो हि कार्यं कारणानुरूपं भवति। श्रद्धा इति मनस: जीवस्य वा धर्म:।स धर्म: धर्मिण: अपाकृत्य होतुं न शक्यते इति श्रद्धाशब्दस्य मुख्यार्थोऽत्र बाधित: भवति। अपां पर्यायेषु श्रद्धा इति शब्द: विद्यते ‘श्रद्धा वा आप:’ इति प्रयोगदर्शनात्।आप: तथा श्रद्धा इत्येतयो: तनुत्वरूपं साम्यं विद्यते।अत: देहबीजभूता: आप: अत्र श्रद्धाशब्देनोक्ता:।
आप: श्रद्धाजनका: सन्ति- ‘आपो हास्मै (यजमानाय) श्रद्धां संनमन्ते (जनयन्ति) पुण्याय कर्मणे’ इति श्रुते:।

अश्रुतत्वादिति चेत् नेष्टादिकारिणां प्रतीते:।३.१.६
पू.- एताभ्यां प्रश्नप्रतिवचनाभ्याम् आप: श्रद्धादिक्रमेण पञ्चम्याम् आहुतौ पुरुषवचसो भवन्ति इति सिद्धम्।परं ताभि: परिवेष्टितो जीव: रंहतीति तु न श्रुतम्।तस्मात् ‘संपरिष्वक्त: जीव: रंहति’ इति यदुक्तं, तदयुक्तम्।
वे.- नायं दोष:, इष्टादिकारिणां प्रतीते:।
छान्दोग्ये इष्टादिकारिणां मृत्यूत्तरा गति: वर्णिता।इष्टमग्निहोत्रादि वैदिकं कर्म।पूर्तं वापीकूपतडागारामादिकरणम्।दत्तं यथाशक्ति अर्हेभ्यो धनसंविभाग:।एतानि कर्माणि ये गृहस्था: (ग्रामा:) कुर्वन्ति, ते क्रमश: धूमादिमार्गेण चन्द्रमसं प्राप्नुवन्ति।
‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासते, ते ... चन्द्रमसम् (अभिसम्भवन्ति) एष सोमो राजा’ (छा.५.१०.३,४)
प्रकृते तादृशमेव वचनं श्रूयते –
‘तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति तस्या आहुते: सोमो राजा सम्भवति (छा.५.४.२)।
तेन इष्टादिकारिणामत्र प्रतीति: भवति।
पू.-परमेतावता ‘जीव: संपरिष्वक्त: रंहति’ इति कथमिव सिद्ध्यति?
वे.-इष्टादिकारिणां कर्मसु सहायभूतानि दुग्धादीनि द्रव्याणि अप्स्वरूपाणि।ता: आप: यदा हूयन्ते, तदा ता: सूक्ष्मा: भूत्वा, अपूर्वरूपा: सत्य: तान् इष्टादिविकारिण: जीवान् आश्रयन्ति। इष्टादिकारिण: यदा म्रियन्ते, तदा अन्त्येष्टिकाले ऋत्विजो जुह्वति- ‘असौ स्वर्गाय लोकाय स्वाहा’ इति।तदा ता: अपूर्वभूता: सूक्ष्मा: आप: जिवान् परिवेष्ट्य परलोकं फलदानाय नयन्ति। अयं सर्व: आशय: जुहोतिना अभिधीयते- ‘श्रद्धां जुह्वति’(बृ. ६.२.९) इति।अपरं प्रमाणम् अग्निहोत्रे वाक्यशेष:-‘ते वा एते आहुती हुते उत्क्रामत:’ इति।अत्र आहुत्यो: फलारम्भाय लोकान्तरगमनम् उक्तम्।अत: आहुतीमयीभि: अद्भि: संपरिष्वक्त: जीव: रंहतीति सिद्धम्।
पू.-इष्टादिकारिणां स्वकर्मफलभोगाय रंहणम् इव अत्रापि जीवस्य रंहणं साद्ध्यते।परम् इष्टादिकारिणां रंहणमेव न सम्भवति, अन्नभावोपगमात्-
‘एष सोमो राजा, तद्देवानामन्नं तं देवा भक्षयन्ति’(छा.५.१०.४)
तथा च
ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानम् आप्यायस्व अपक्षीयस्व इति एवमेनांस्तत्र भक्षयन्ति’।(बृ. ६.२.१६)
एवमनिष्टादिकारिणो देवानां भक्ष्यभूता:।कथं तेषामग्रे रंहणं सम्भवति?

भाक्तं वानात्मवित्त्वात्तथा हि दर्शयति।३.१.७
वे.- वाशब्देन चोदितदोष: व्यावर्त्यते।इष्टादिकारिणाम् अन्नत्वं भाक्तं, न तु मुख्यम्।यदि एषाम् अन्नत्वं मुख्यम् अभ्युपगम्यते, तर्हि तेषां फलभोग: न सम्भवति।तेन ‘यजेत स्वर्गकाम:’ इति श्रुते: उपरोध: स्यात्।अत: अन्नशब्दस्य मुख्यार्थ: बाधित: मन्तव्य:।अन्नशब्द: उपचारेण उपभोगसाधने अनन्ने अपि वर्तते यथा- ‘विशोऽन्नं राज्ञां, पशवोऽन्नं विशाम्’ इति।अत: देवा: गुणभावोपगतै: इष्टादिकारिभि: सह सुखविहरणं कुर्वन्ति, स्त्रीपुत्रमित्रभृत्यादिभि: इव।एतदेव इष्टादिकारिणाम् अन्नत्वम्।न साक्षाच्चर्वणमत्र अभिप्रेतं, न वा निगरणम्।
श्रुतिरपि प्रमाणमत्र। - - - ‘न ह वै देवा अश्नन्ति, न पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति।’ (छा.३.६.१)
एषा श्रुति: चर्वणादिव्यापारं निराकरोति।
पू.- यद्येते इष्टादिकारिण: देवानाम् उपभोगहेतव:, तर्हि एतेषां स्वर्गाद्युपभोग: कथं सम्भवति?
वे.- यथा राजसेवकानां स्वस्य स्वस्य उपभोग: सम्भवति, तथा।
पू.-इष्टादिकारिण: स्वकर्म फलरूपं स्वर्गादिकं लभन्ते।परं देवानामन्नत्वं गच्छन्ति केन कारणेन?
वे.-अनात्मवित्त्वात् तेषाम्।अनात्मविदां देवोपभोग्यता श्रुत्या अन्यत्रापि दर्शिता –
‘अथ योऽन्यां देवतामुपास्ते, अन्योऽसावन्योऽहमिति,न स वेद यथा पशुरेवं स देवानाम्।’ (बृ,१.४.१०)
एवमन्नत्वमेषां भाक्तम्।अत: ते इष्टादिकारिण: जीवा: रंहन्तीति प्राप्तम्।ते च संपरिष्वक्ता: रंहन्तीति युक्तम्।

तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्